सर्वभाषाजननी संस्कृतभाषा

शुक्रवार, 28 मई 2010

धनञ्जय शास्त्री दुर्ग ज्ञान

धनञ्जय शास्त्री दुर्ग ज्ञान  guhtam

गुरुवार, 6 मई 2010

दु:खस्य समाधानम् अध्यात्मम्

दु:खनिवृत्तिम् अधिकृत्य एव अध्यात्मचिन्तनम् आरब्धम् ।न केवलं स्वदु:खनिवारणम् अपितु संसारस्य सर्वेषां प्राणिनां दु:खनिवारणम् । सामान्यत: जना: प्राणिन: वा आहारे निद्रायां भये मैथुने आसक्ता: व्यस्ता: मत्ता: विक्षिप्ता: च भवन्ति, किन्तु ऋषय: स्वपरदु:खनिवारणे आसक्ता: व्यस्ता: मत्ता: निमग्ना: च भवन्ति ।