सर्वभाषाजननी संस्कृतभाषा

शनिवार, 25 सितंबर 2010

Namas Te

Namas Te

शनिवार, 12 जून 2010

शुक्रवार, 11 जून 2010

संस्कृतरामकथा

संस्कृतमयं रामकथापारायणम् 1जूनत: छत्तीसगढस्य दुर्गनगरे प्रथमवारम्
आयोजितम् अभवत्।
तस्य उद्घाटनम् अतिथय: दीपप्रज्वलनपूर्वकं कृतवन्त:।मंङ्गलाचरणे
विद्वांस: वैदिकमन्त्रान् छात्रा: संस्कृतगीतं च उच्चारितवन्त:।
मुख्यातिथय: विद्वांस: , डा.महेशचन्द्रशर्मा महोदय:
डा.सुरेशकुमार शर्मा महोदय: डा.राजकुमारशास्त्री विद्याकान्तत्रिवेदी
डा.सुर्यप्रकाशमिश्र:इत्यादय: आसन् । सर्वे विद्वांस:समायोजकस्य
आचार्यधनञ्जयशास्त्रिण: सत्साहसं अल्पवयस्कं
संस्कृतरामकथाप्रवाचकं आचार्य सर्वज्ञभूषणमिश्रंच सहृदयतया प्राशंसन्
प्रोत्साहयंश्च।संस्कृतसंभाषणशि

क्षणे कुशल:संस्कृतभारत्या: सतीश सारस्वत:
रामायणम् आधृत्य संस्कृतं शिक्षयन् सर्वान् मोदितवान । उद्घाटनदिनाद्
आरभ्य रामप्रेमिण: संस्कृतप्रेमिण: च शिक्षकशिक्षिका: छात्रच्छात्रा: च
सरलसंस्कृतेन उच्यमानां रामकथां शृण्वन्त: श्रोतार: नूतनतया आनन्दम्
अनुभवन्त: सन्ति ।गुरुकुलवत् दिनचर्यापालनं कुर्वन्त: शिविरार्थिन:
श्रोतार: च भृशं मोदन्ते ।वाल्मीकीयरामायणस्य अखण्डपाठ:
संस्कृतसंभाषणवर्ग: संस्कृतव्याकरणवर्ग: च प्रचलति। 8मे दिनाङ्के
संपूर्णनगरे संस्कृतरक्षान्दोलनयात्रा प्रवृत्ता।
नगरवासिन: संस्कृतमयं दृश्यं दृष्ट्वा संस्कृतं प्रति हृतनेत्रा: संजाता:
।तत्र रिक्षाचालक: संस्कृतं वदति ,हस्तशकटे शाकविक्रयणं कुर्वन्
शाकविक्रीता वदति आलुकम् कूष्माण्डम् पलाण्डु: अलाबू कर्कटी पत्रशाकम्
इत्यादि । अद्य 9मे दिनाङ्के कार्यक्रम: पूर्णतां गच्छति ।एतस्मिन्नवसरे
छ.ग.संकृतविद्यामण्डलस्य सचिव; श्रीमान् सुरेशकुमारशर्मा अवनिभूषणपुरंग:
श्रीविनोदजायसवाल: इत्यादय: अतिथय: समागच्छन्ति । प्रथमवारम् आयोजितम्
एतत् संस्कृतमयं रामकथापारायणं सर्वेषां कृते कौतूहलकरं विद्यते । आगामि
आयोजनं शीतकाले नवम्बर मासे दुर्गनगरे पुन: भवेत् इति समुपस्थिता:
विचारितवन्त: । संस्कृतभाषाया: भाषितस्वरूप विकासार्थं संस्कृतं प्रति
लोकरुचिं प्रेरयितुं कार्यक्रमोयम् निदर्शनमिति। कार्यक्रमसंबद्धानि
छायाचित्राणि संलग्नानि सन्ति ।आकाशवाण्यां त्रिवारं प्रसारितम्

शुक्रवार, 28 मई 2010

धनञ्जय शास्त्री दुर्ग ज्ञान

धनञ्जय शास्त्री दुर्ग ज्ञान  guhtam

गुरुवार, 6 मई 2010

दु:खस्य समाधानम् अध्यात्मम्

दु:खनिवृत्तिम् अधिकृत्य एव अध्यात्मचिन्तनम् आरब्धम् ।न केवलं स्वदु:खनिवारणम् अपितु संसारस्य सर्वेषां प्राणिनां दु:खनिवारणम् । सामान्यत: जना: प्राणिन: वा आहारे निद्रायां भये मैथुने आसक्ता: व्यस्ता: मत्ता: विक्षिप्ता: च भवन्ति, किन्तु ऋषय: स्वपरदु:खनिवारणे आसक्ता: व्यस्ता: मत्ता: निमग्ना: च भवन्ति ।

बुधवार, 28 अप्रैल 2010

Posted by Picasa



Posted by Picasa